Sbg 3.19 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।3.19।।त्वं तु न साङ्ख्यज्ञानवान्। यतः तस्मादसक्तः कार्यं कर्म कुरु। त्वमिति साङ्ख्ययोगतत्त्वम्। यस्ययद्विहितं नित्यं नैमित्तिकं तदाचरन् असक्तः पुरुषो ब्रह्मविदाप्नोति परं पदम्। भगवदर्थमिति वाऽसङ्गपदार्थः। न हि कामव्यतिरेकेण कर्ममात्रं कश्चिद्देहाभिमानी करोति। नच अहरहः सन्ध्यामुपासीत इत्यादौ नित्ये कर्मणि कामफलाश्रवणान्नैवमिति वाच्यम् तत्रापि विधिप्रयोगेन कामफलकल्पनात् प्रत्यवायपरिहारस्यापि तत्त्वाच्च। ज्योतिष्टोमे स्वर्गकामवत्। अन्यथा प्रवृत्त्यनुपपत्तिः। अतो भगवत्कामनया कर्म कार्यमित्युक्तं भवति तदग्रे स्फुटीकरिष्यते।