Sbg 3.19 scdhan
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Dhanpati ।।3.19।। तव तु चित्तशुद्धिद्वारा ज्ञानार्थ कर्मण्यधिकारः। तस्मादसक्तः फलासक्तिवर्जितः कार्यमवश्यंकर्तव्यं नित्यं नैमित्तिकं च कर्म सर्वदा समाचार। हि यस्मात्पुरुषोऽसक्तः कर्म समाचरन् ईश्वरार्थ कर्म कुर्वन् सत्त्वशुद्धिद्वारा ज्ञानप्राप्त्या परं मोक्षं प्राप्नोति।