Sbg 3.18 scdhan
Sanskrit Commentary By Sri Dhanpati ।।3.18।। चतुर्थपादं विवृणोति नैवेति। तस्यात्मरतेः कृतेन कर्मणाभ्युदयार्थेन ज्ञानार्थेन मोक्षार्थेन वा प्रयोजनं नैवास्ति। स्वर्गस्य तुच्छरुपेण ज्ञातत्वात्। ज्ञानस्य जातत्वात्नास्त्यकृतः कृतेन इतिश्रुत्या मोक्षस्य कर्माकार्यत्वप्रतिपादनात्। अस्तु तर्ह्यकृतेन प्रत्यवायाख्योऽर्थ इत्यत आह नेति। इह लोके कश्चिदपि प्रत्यवायप्राप्तिरुपः स्वहानिलक्षणोऽर्थो नास्ति आत्मरतेः नित्यकरणेऽधिकृतत्वाभावात्। तस्मिन्काले प्रत्यवायजनकभावरुपविहितान्यकर्मणि तस्य व्यापृतत्वाभावाच्च। यतो यत्किंचिदपि कस्मादपि तस्य साध्यं नास्तीत्याह नचेति। अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कश्चिदर्थोऽर्थामाश्रयणीयः सेवनीयो नास्ति येन तदर्था क्रियानुष्ठेया स्यात्। अस्मिन्श्लोके भूमिकारुढस्येत्यादिशब्दस्याभावेनाप्रासङ्गिकं वासिष्ठोक्तभूमिकाप्रदर्शनं कैश्चित्कृतमिति बोध्यम्।