Sbg 3.11 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।3.11।।इष्टार्थपूरकत्वमेवाह देवानिति। भावयत तर्पयत। अनेन देवतापूजात्मकेन यज्ञेन ते वो युष्मान्भावयन्तु वृष्ट्यादिदानेन। परस्परं भावयन्तो देवाश्च यूयं च श्रेयः परं प्राप्स्यथ।