Sbg 2.8 scsri
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Sridhara Swami ।।2.8।।त्वमेव विचार्य यद्युक्तं तत्कुर्विति चेत्तत्राह नहीति। इन्द्रियाणामुच्छोषणमतिशोषणकरं मदीयं शोकं यत्कर्मापनुद्यादपनयेत्तदहं न प्रपश्यामि। यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि। तथा सुरेन्द्रत्वमपि यदि प्राप्स्यामि। एवमभीष्टं तत्सर्वमवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्यन्वयः।