Sbg 2.67 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।2.67।।आकाङ्क्षाद्वारा श्लोकान्तरमुत्थापयति अयुक्तस्येति। विक्षिप्तचेतसो भावनाभावे साक्षात्कारलक्षणा बुद्धिर्न भवतीति हेत्वन्तरेण साधयति इन्द्रियाणामिति। यत्पदोपात्तं मनस्तत्पदेनापि गृह्यते। इन्द्रियाणां श्रोत्रादीनां विषयाः शब्दादयस्तेषां विकल्पनं मिथो विभज्य ग्रहणं तेनेति यावत्। दृष्टान्तं व्याकरोति उदक इति। करोति यस्मात्तस्मादयुक्तस्य नोत्पद्यते बुद्धिरिति योजना।