Sbg 2.66 scsh

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।2.66।।


नास्ति न विद्यते न भवतीत्यर्थः बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य। न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः। तथा न च अस्ति अभावयतः आत्मज्ञानाभिनिवेशमकुर्वतः शान्तिः उपशमः। अशान्तस्य कुतः सुखम् इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम् न विषयविषया तृष्णा। दुःखमेव हि सा। न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः।।

अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते