Sbg 2.66 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।2.66।।मयि संन्यस्तमनोरहितस्य खयत्नेन इन्द्रियदमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्मविषया बुद्धिः न सेत्स्यति। अत एव तस्य तद्भावना च न संभवति। विविक्तात्मानम् अभावयतो विषयस्पृहा शान्तिः न भवति। अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः।

पुनरपि उक्तेन प्रकारेण इन्द्रियनियमनम् अकुर्वतः अनर्थम् आह