Sbg 2.66 scpur

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Purushottamji


।।2.66।।ननु समाधिस्थस्यापि स्थितप्रज्ञतैवोक्ता तदा को विशेषः इत्यत आह नास्ति बुद्धिरिति। अयुक्तस्य मयि योगरहितस्य बुद्धिरेव नास्ति। अयमर्थः बुद्ध्यनन्तरं चेन्मयि योगो न जातस्तदा सा स्थितप्रज्ञैव न। तस्मात्समाधिस्थभगवत्संयोगाभावे स्थितप्रज्ञाप्यकिञ्चित्करीत्यर्थः। ननु समाधिस्थयोगेनापि किं फलं इत्याशङ्क्याह न चेति। अयुक्तस्य भगवत्सम्बन्धरहितस्य भावना भगवद्रसौपयिकदेहाभिलाषो न च भवति। ननु भावनामात्रेणापि किम् अत आह न चेति। अभावयतः भावनामकुर्वतः शान्तिर्भगवद्रसौपयिकदेहावाप्तिर्न च भवति। तादृग्देहिनः साक्षादानन्दानुभवो न भवतीत्याह अशान्तस्येति। अशान्तस्य तादृग्देहाप्त्या तापरहितस्य सुखं साक्षात्सम्बन्धात्मकभजनानन्दानुभवः कुतः स्यात् इत्यर्थः।