Sbg 2.66 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।2.66।।इममेवार्थं व्यतिरेकमुखेन द्रढयति अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते। तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा। सर्वत्र नञोऽस्तीत्यने नान्वयः। नचाभावयत आत्मानं शान्तिः सकार्याविद्यानिवृतिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः। अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्द इत्यर्थः।