Sbg 2.60 scsri

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Sridhara Swami ।।2.60।।इन्द्रियसंयमं विना तु स्थितप्रज्ञता न संभवति। अतः साधकावस्थायां तत्र महान्प्रयत्नः कर्तव्य इत्याह यततो ह्यपीति द्वाभ्याम्। यततो मोक्षे प्रयतमानस्यापि विपश्चितो विवेकिनोऽपि मन इन्द्रियाणि प्रसभं बलाद्धरन्ति। यतः प्रमाथीनि प्रमथनशीलानि प्रक्षोभकाणि।