Sbg 2.60 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।2.60।।आत्मदर्शनेन विना विषयरागो न निवर्तते अनिवृत्ते विषयरागे विपश्चितो यतमानस्य अपि पुरुषस्य इन्द्रियाणि प्रमाथीनि बलवन्ति मनः प्रसह्य हरन्ति। एवम् इन्द्रियजय आत्मदर्शनाधीन आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्राप्या।