Sbg 2.59 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।2.59।।इन्द्रियाणाम् आहारो विषयाः निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषयाः विनिवर्तमाना रसवर्जं विनिवर्तन्ते। रसो रागः विषयरागो न निवर्तते इत्यर्थः। रागः अपि आत्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा विनिवर्तते।