Sbg 2.59 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।2.59।।ननु इन्द्रियाणामन्नाद्यभावेने
न्द्रि৷৷৷৷৷৷৷৷
यविषयेषु प्रवृत्तिः कथं कथं न तेषामपि स्थितप्रज्ञता इत्याशङ्क्याह विषया इति। निराहारस्य देहिनो विषया विनिवर्तन्ते तत्सत्यमित्यर्थः। परन्तु रसव
र्जं৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷৷.
रसो नाम तदनुभवार्थाभिलाषस्तद्वर्जं तद्गृहीतमित्यर्थः।देहिनः इति पदेन तेषां देहाध्यासोऽपि न निवर्त्तत इति ज्ञापितम्। अस्य स्थितप्रज्ञस्य रसोऽपि तदभिलाषोऽपि परमुत्कृष्टं भगवदीयरसं दृष्ट्वा निवर्त्तते। एतावद्वैलक्षण्यमिति भावः।