Sbg 2.57 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।2.57।।
यः
मुनिः
सर्वत्र
देहजीवितादिष्वपि
अनभिस्नेहः
अभिस्नेहवर्जितः
तत्तत् प्राप्य शुभाशुभं
तत्तत् शुभं अशुभं वा लब्ध्वा
न अभिनन्दति न द्वेष्टि
शुभं प्राप्य न तुष्यति न हृष्यति अशुभं च प्राप्य न द्वेष्टि इत्यर्थः।
तस्य
एवं हर्षविषादवर्जितस्य विवेकजा
प्रज्ञा प्रतिष्ठिता
भवति।।
किञ्च