Sbg 2.54 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।2.54।।एतदुक्त्वा भगवांस्तूष्णीं स्थितस्तदाऽर्जुनस्तादृग्बुद्धिज्ञानाथ पृच्छति स्थितप्रज्ञस्येति। स्थितप्रज्ञस्य निश्चलबुद्धेः का भाषा का परिभाषेत्यर्थः। कथा परिभाषया स ज्ञेयः। हे केशव दुष्टगुणव्याप्तयोरपि मोक्षदायक मम मोक्षा
र्थं৷৷৷৷৷৷৷৷৷৷৷৷
याथातथ्येन कथयेति भावः। समाधिस्थस्य च का भाषा तदपि कथय। स्थितधीः किं प्रभाषेत। श्रोतव्यं चेन्न किञ्चित्तदा किं ब्रूयादित्यर्थः। स्वोच्चरितवाक्यम्यापि श्रवणसम्भवात्। किमासीत कथमुपतिष्ठेत् किं व्रजेत कथं गच्छेत् इत्यर्थः।