Sbg 2.54 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।2.54।।लब्धसमाधेः स्थितप्रज्ञापरनाम्नो लक्षणानि बुभुत्सुरर्जुन उवाच स्थितप्रज्ञस्येति। स्थिता प्रत्यगात्मनि प्रतिष्ठिता प्रज्ञा यस्य तस्य स्थितप्रज्ञस्य समाधिस्थस्य समाधौ स्थितस्य का भाषा भाषणं वचनं। कथमसौ परैर्भाष्यते इत्येकः प्रश्नः। स्थितधीः स्थितप्रज्ञः अर्थाद्व्युत्थितः सन् किं प्रभाषेत कथं वदति कथमास्ते कथं वा व्रजति विषयान्भुङ्क्ते इति प्रश्नत्रयम्।