Sbg 2.53 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।2.53।।
श्रुतिविप्रतिपन्ना
अनेकसाध्यसाधनसंबन्धप्रकाशनश्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना विक्षिप्ता सती ते तव बुद्धिः
यदा
यस्मिन् काले
स्थास्यति
स्थिरीभूता भविष्यति
निश्चला
विक्षेपचलनवर्जिता सती
समाधौ
समाधीयते चित्तमस्मिन्निति समाधिः आत्मा तस्मिन् आत्मनि इत्येतत्।
अचला
तत्रापि विकल्पवर्जिता इत्येतत्।
बुद्धिः
अन्तःकरणम्।
तदा
तस्मिन्काले
योगम् अवाप्स्यसि
विवेकप्रज्ञां समाधिं प्राप्स्यसि।।
प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया
अर्जुन उवाच