Sbg 2.48 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।2.48।।
योगस्थः
सन्
कुरु कर्माणि
केवलमीश्वरार्थम् तत्रापि ईश्वरो मे तुष्यतु इति
सङ्गं त्यक्त्वा धनञ्जय।
फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः तद्विपर्ययजा असिद्धिः तयोः
सिद्ध्यसिद्ध्योः
अपि
समः
तुल्यः
भूत्वा
कुरु कर्माणि। कोऽसौ योगः यत्रस्थः कुरु इति उक्तम् इदमेव तत् सिद्ध्यसिद्ध्योः
समत्वं योगः उच्यते।।
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्मोक्तम् एतस्मात्कर्मणः