Sbg 2.46 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।2.46।।यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोः यावान् अर्थः यावद् एव प्रयोजनं पानीयम् तावद् एव तेन उपादीयते न सर्वम् एवम् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तद् एव उपादेयम् न अन्यत्।
अतः सत्त्वस्थस्य मुमुक्षोः एतावद् एव उपादेयम् इत्याह