Sbg 2.45 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।2.45।।
त्रैगुण्यविषयाः
त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते
वेदाः
त्रैगुण्यविषयाः। त्वं तु
निस्त्रैगुण्यो भव अर्जुन
निष्कामो भव इत्यर्थः।
निर्द्वन्द्वः
सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ ततः निर्गतः निर्द्वन्द्वो भव।
नित्यसत्त्वस्थः
सदा सत्त्वगुणाश्रितो भव। तथा
निर्योगक्षेमः
अनुपात्तस्य उपादानं योगः उपात्तस्य रक्षणं क्षेमः
योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो भव। आत्मवान् अप्रमत्तश्च भव। एष तव उपदेशः स्वधर्ममनुतिष्ठतः।।
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत् किमर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते इत्युच्यते श्रृणु