Sbg 2.43 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।2.43।। याम् इमां पुष्पितां पुष्पमात्रफलाम् आपातरमणीयां वाचम् अविपश्चितः अल्पज्ञा भोगैश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः न अन्यद् अस्ति इति वादिनः तत्सङ्गातिरेकेण स्वर्गा देः अधिकं फलं न अन्यद् अस्ति इति वदन्तः। कामात्मानः कामप्रवणमनसः स्वर्गपराः स्वर्गपरायणाः स्वर्गादिफलावसाने पुन र्जन्मकर्मा ख्य फलप्रदां क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां तेषां भोगैश्वर्यगतिं प्रति वर्तमानां याम् इमां वाचं ये प्रवदन्ति इति सम्बन्धः।