Sbg 2.42 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।2.42।।उत्तरार्धमेव विवृणोति यामिमामित्यादिना। यां पुष्पितां पुष्पितद्रुमवद्दूरतो रमणीयां वाचम्अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतिअपाम सोमममृता अभूम इत्येवंरूपां प्रवदन्ति। अविपश्चितः अव्यवसायिनो मूढाः। यतो वेदवादरताः वेदान्तर्गतेषु अर्थवादेषुयस्य पर्णमयी जुहूर्भवतिन पापँ् श्लोकँ् शृणोति इत्येवमादिषु रताः बद्धश्रद्धाः अतएव कर्मणोऽन्यत् आत्मज्ञानं तत्फलं मोक्षश्च नास्तीति वादिनो वदनशीलाः।