Sbg 2.41 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।2.41।।नेहेति। इह (S K omit इह) अस्यां बुद्धौ अतिक्रमेण अपराधेन प्रमादेन नाशो न भवति


प्रमादस्याभावात्। यथा च (S N तथा च) परिमितेन श्रीखण्डकणेन ज्वालायमानोऽपि तैलकटाहः सद्यः शीतीभवति (N शीतो भवति) एवं अनया स्वल्पयापि (S omits अपि) योगबुद्ध्या महाभयं संसाररूपं विनश्यति।