Sbg 2.37 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।2.37।।धर्मयुद्धे परैः हतः चेत् तत एव परमनिःश्रेयसं प्राप्स्यसि परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे। अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात् तत् च परमनिःश्रेयसं प्राप्स्यसि। तस्माद् युद्धाय उद्योगः परमपुरुषार्थलक्षणमोक्षसाधनम् इति निश्चित्य तदर्थम् उत्तिष्ठ। कुन्तीपुत्रस्य तव एतद् एव युक्तम् इत्यभिप्रायः।

मुमुक्षोः युद्धानुष्ठानप्रकारम् आह