Sbg 2.37 scanand
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Anandgiri ।।2.37।।तर्हि युद्धे गुर्वादिवधवशान्मध्यस्थनिन्दा ततो निवृत्तौ शत्रुनिन्देत्युभयतःपाशा रज्जुरित्याशङ्क्याह युद्धे पुनरिति। जये पराजये च लाभध्रौव्याद्युद्धार्थादुत्थानमावश्यकमित्याह तस्मादिति। नहि परिशुद्धकुलस्य श्रत्रियस्य युद्धायोद्युक्तस्य तस्मादुपरमः साधीयानित्याह कौन्तेयेति। जये पराजये चेत्येतदुभयथेत्युच्यते जयादिनियमाभावेऽपि लाभनियमे फलितमाह यत इति। कृतनिश्चयत्वमेव विशदयति जेष्यामीति।