Sbg 2.34 scpur
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Purushottamji
।।2.34।।किञ्च पापात्परलोकनाश एव भविष्यतीति न किन्त्विह लोकेऽप्यपकीर्तिर्भविष्यतीत्याह अकीर्तिं चापीति। भूतानि अपि ते अकी
र्ति৷৷৷৷৷৷৷৷৷৷৷৷
मव्ययां सदानुवर्त्तमानां कथयिष्यन्ति। भूतानीति नपुंसकलिङ्गकथनेन तथा कथनायोग्या अपि कथयिष्यन्तीति व्यञ्जितम्। नन्वकीर्तिकथनेन किं स्यादित्यत आह सम्भावितस्येति। सम्भावितस्य युद्धादौ अकीर्तिः मरणात् अतिरिच्यते अधिका भवतीत्यर्थः।