Sbg 2.2 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।2.2।।अर्जुनमुद्योजयन् श्रीभगवानुवाच कुत इति। कश्मलं वैक्लव्यम्। विषमे युद्धसंकटे। अनार्यैर्भीरुभिर्जुष्टं सेवितं न तु त्वादृशैः शूरैः न आर्यैर्जुष्टमिति वा। यत्तु आर्यैरजुष्टमिति विग्रहो दर्शितस्तदर्थैक्येऽपि पदव्युत्क्रमदोषादुपेक्ष्यम्। अतएवास्वर्ग्यमकीर्तिकरं च। हे अर्जुन स्वच्छस्वभाव तव नैतद्युक्तमिति भावः।