Sbg 2.29 scram
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Ramanuja ।।2.29।।एवम् उक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवद् अवस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपाप उपचितपुण्यः कश्चित् पश्यति तथाविधः कश्चित् परस्मै वदति एवं कश्चिद् एव श्रृणोति श्रुत्वा अपि एनं यथावद् अवस्थितं तत्त्वतो न कश्चिद् वेद। चकाराद् द्रष्टृवक्तृश्रोतृषु अपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतः श्रवणं दुर्लभम् इति उक्तं भवति।