Sbg 2.27 scneel
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Neelkanth ।।2.27।।शोचितुं नार्हसीत्युक्तं तत्र हेतुमाह जातस्येति। ध्रुवोऽपरिहार्यः मृत्युर्मरणम्। अपरिहार्ये अर्थे मरणाख्ये त्वदुद्योगं विनापि अवश्यंभाविनि विषये न त्वं शोचितुमर्हसि। वक्ष्यति चमयैवैते निहताः पूर्वमेव इति।