Sbg 2.24 scval

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vallabhacharya ।।2.24।।अच्छेद्य इत्यर्द्धेन निगमनम्। कार्यत्वव्यावृत्त्यर्थं नित्य इति। सर्वगत इति व्यापकत्वम्। ब्रह्मभावाभिप्रायेण जीवस्तु व्यापकः न स्वरूपेण किन्तु स्वचैतन्यगुणेन भगवद्धर्मभूतत्वात् तदग्रे वक्ष्यते। स्थाणुरिति स्थिरत्वम्। अचल इति निष्क्रियत्वम्। नन्वेवं भूतमाकाशं प्रसिद्धं तदेव इति चेत् न इत्याह सनातन इति। तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः तै.उ.2।1 इति तत्सम्भवश्रवणादित्यर्थः।