Sbg 2.21 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।2.21।।एवम् अविनाशित्वेन अजत्वेन व्ययानर्हत्वेन च नित्यम् एनम् आत्मानं यः पुरुषो वेद स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेषु आत्मसु कम् अपि आत्मानं कथं घातयति कं वा कथं हन्ति कथं नाशयति कथं वा तत्प्रयोजको भवति इत्यर्थः। एतान् आत्मनो घातयामि हन्मि इति अनुशोचनम् आत्मस्वरूपयाथात्म्याज्ञानमूलम् एव इत्यभिप्रायः।

यद्यपि नित्यानाम् आत्मनां शरीरविश्लेषमात्रं क्रियते तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तिम् अस्ति एव इति अत आह।