Sbg 2.19 scvv

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।2.19।।अथअविनाशि तु 2।17 इति श्लोकेनोक्तंनैनं छिन्दन्ति 2।23 इति प्रपञ्चयिष्यमाणं शस्त्रादीनामात्मनश्च हन्तृत्वहन्तव्यत्वायोग्यत्वं तद्विपर्ययवेदिनिन्दया द्रढयति य एनमिति। सामानाधिकरण्यभ्रमनिरासायोक्तं प्रतीति।हन्तारम् इत्यस्य तृन्नन्तत्वात्एनम् इति द्वितीयान लोकाव्ययनिष्ठाखलर्थतृनाम् अष्टा.2।3।69 इति कृद्योगषष्ठीनिषेधात्।हननहेतुमिति। प्रत्ययस्यात्र हेतुमात्रविवक्षेति भावः।न कश्चित्कर्तुमर्हति 2।17 इति पूर्वोक्तवत्पदार्थविवक्षया पुल्लिङ्गत्वोपपत्तिरिति ज्ञापनायोक्तम् कमपीति। छेदनादिहेतुषु कञ्चिदपीत्यर्थः। ननु हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते 1।


प्रतिज्ञान्तरभ्रमव्युदासायाह उक्तैरिति।अस्य नित्यत्वादिति। तत्कार्यशक्तमपि न हि तदयोग्ये प्रवर्तत इति भावः।एनम् इति पूर्ववाक्यादनुकृष्योक्तम्।अतएव चेति। अयोग्यतया हेत्वभावे तत्क्रियाविषयत्वरूपफलाभाव इति भावः।अयं हननहेतुः अयमात्मा इत्युभयत्र अयंशब्दप्रयोगात्तन्त्रेणोच्चारितोऽयं शब्दोहन्ति हन्यते इत्यनयोर्विवक्षाभेदात्कर्तृकर्मसमर्पक इति भावः। कथं तर्हिमनुष्यं हन्ति इत्यादिप्रयोगः। न ह्यसौ शरीरमात्रहननविषयः मृतशरीरघातकेषुपितृहा मातृहा इत्यादिप्रयोगोपक्रोशाद्यभावात्। मनुष्यादिशब्दाश्चात्मपर्यवसिता इति नः सिद्धान्तः।मां जिघांसति इत्यादिप्रयोगेषु व्यक्तमेव हन्तेरात्मकर्मकत्वम्। अतो हिंसायोगश्चेतन एव हन्तिधातोः कर्मभूतः। तथा सतिनायं हन्ति न हन्यते इत्युक्तमुभयमपि नोपपद्यते इत्याशङ्क्याह हन्तिधातुरिति।आत्मकर्मकः इत्यनेन शङ्कासूचनम् सत्यमात्मकर्मक एव स्वतो हन्तिधातुः न तु तत्स्वरूपप्रच्युतिप्रतिपादकः किन्तु मारणपरः। तथैव हि लोकवेदयोः प्रयोगः। मारणं च शरीरादिविश्लेषणात्मकम्।मृङ् प्राणत्यागे इति चानुशिष्यत इति भावः। एवं लोकप्रयोगो निर्व्यूढः। न हिंस्यात्सर्वा भूतानि इति शास्त्रप्रयोगस्य कोऽर्थः। स चास्तु यः कश्चित् स तावत् सामान्यतो विशेषतश्च निषिद्धत्वादकर्तव्य इत्याशङ्क्याह न हिंस्यादिति। पराभिमतप्रक्रिययोत्सर्गापवादन्यायाद्वा स्वमतेन विहितशरीरवियोगकरणस्य पशुशत्रुप्रभृतीनामपि हिततमत्वेन हिंसात्वस्यैवाभावाद्वेति भावः।