Sbg 2.19 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।2.19।। एनम् उक्तस्वभावम् आत्मानं प्रति हन्तारं हननहेतुकम् अपि यो मन्यते यः च एनं केन अपि हेतुना हतं मन्यते उभौ तौ न विजानीतः। उक्तैः हेतुभिः अस्य नित्यत्वाद् एव अयं हननहेतुः न भवति अत एव च अयम् आत्मा न हन्यते। हन्तिधातुः अपि आत्मकर्मकःशरीरवियोगकरणवाची।न हिंस्यात् सर्वा भूतानिब्राह्मणो न हन्तव्यः (क0 स्मृ0 8।2) इत्यादीनि अपि शास्त्राणि अविहितशरीरवियोगकरणविषयाणि।