Sbg 2.18 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।2.18।।एवं सत आत्मनो नित्यत्वं असतो देहादेरनित्यत्वं चोक्तमुपसंहरन् एनं युद्धाभिमुखं करोति अन्तवन्त इति। यद्यपिनासतो विद्यते भावः इति असतां देहानां कालत्रयेऽपि सत्त्वं नास्तीति परमार्थदृष्ट्या


उक्तं तथापि तां दृष्टिमप्रतिपद्यमानस्य नरकादिभयमनुरुध्यमानस्य व्यवहाराभिप्रायेण नित्यानित्यविभागमभिप्रेत्य देहानामन्तवत्त्वमुच्यत इति न दोषः नित्यत्वं कालापरिच्छेद्यत्वं तच्च व्यवहारे नभसोऽप्यस्तीत्यत उक्तं अनाशिन इति। नाशः अदर्शनं तद्वान् हि आकाशःनभ आत्मनि लीयते इति स्मृतेः। अयं तु न तथेत्यनाशी। सर्वदैव प्रकाशमान इत्यर्थः। एतदपि न घटादिवद्दृश्यत्वेनेत्याह अप्रमेयस्येति। तथा च श्रुतिरात्मनोऽप्रमेयत्वमाहएतदप्रमयं ध्रुवम् इति। अप्रमयमित्यस्याप्रमेयमित्यर्थः। एतच्चात्मनि प्रमाणाप्रसराज्ज्ञेयम्। तथा च श्रुतिःयेनेदं सर्वं विजानाति तं केन विजानीयाद्विज्ञातारमरे केन विजानीयात् इति। प्रसिद्धिस्त्वस्य प्रत्यगात्मत्वादेव।यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः इति श्रुतेः। उक्तं चप्रमाणमप्रमाणं च प्रमाभासस्तथैव च। यत्प्रसादात्प्रसिध्यन्ति तदसंभावना कुतः। इति। तस्माद्युध्यस्व भारत। भीष्मादिदेहानां मिथ्यात्वादनित्यत्वाच्च स्वयमेव नष्टप्रायतया हननान्निवृत्त्या त्वया स्वधर्मो न नाशनीय इति भावः।