Sbg 2.18 scjaya
Sanskrit Commentary By Sri Jayatritha ।।2.18।।देहानामन्तवत्त्वं प्रागुक्तं किमथमुच्यत इत्यत आह भव त्विति। आत्मनित्यत्वानुमानस्य प्रतिपक्षं वक्तुं स्वाभिप्रेतस्य हेतोः सिद्धान्तिनाप्यभ्युपगतत्वं दृढीकुर्वता पूर्वपक्षिणा देहस्यापि कस्यचिन्नित्यत्वं भवतु किमिति पृष्टे (सति) नेत्याहेत्यर्थः। सिद्धार्थतापरिहाराय कस्यचि दित्युक्तम्। नन्वतिप्रसङ्गोऽयं कस्मान्न भवतिकस्यचिदिति विशेषणवैयर्थ्यप्रसङ्गात्। नित्यस्येत्यात्मनित्यत्वं पुनः कस्मादुच्यत इत्यत आह अस्त्वि ति। एवं देहानित्यत्वं सिद्धान्तिनोऽपि सिद्धं कृत्वा तर्हि प्रतिबिम्बस्यात्मन उपाधेर्देहस्य नाशान्नाशोऽस्तु दर्पणनाशान्मुखप्रतिबिम्बस्येवेति पूर्वपक्षिणा प्रतिपक्षेऽभिहिते तत्प्रतिषेधायेदमाहेत्यर्थः। अनेन तथाऽप्यात्मा नित्य इति वाक्यवृत्तिः सूचिता। अनुवादे प्रयोजनाभावात् ये देहा अनित्या न तेषामुपाधित्वम् यस्योपाधित्वं नासावनित्य इति भावः। तदिदमुक्तं इमे इति। व्यक्तीकरिष्यते चैतत्। ननु शरीरिणो देहा इति व्यर्थम् अशरीरस्य देहाभावादित्यत आह शरीरिण इति। नित्यस्य देहा अन्तवन्त इत्युच्यमाने ईश्वरदेहस्याप्यन्तवत्त्वं प्रसज्यते तद्व्यावृत्त्यर्थं शरीरिणः इति विशेषणम्।जन्तुजन्युशरीरिणः अमरे 1।4।30
इत्यभिधानाच्छरीरिशब्दस्य जीवे प्रसिद्धेः। तथापिअनाशिनः इति पुनरुक्तिरिति। अत्र केचित्तत्परिहारायविनाशिनः इति पाठान्तरं कुर्वन्ति तदसत्अन्तवन्तः इत्यनेन पुनरुक्तितादवस्थ्यात्। कथञ्चित्समाधानेऽन्यत्रापि तत्समम्। किमन्यथापाठेनेत्याशयवानाह
नचे
ति। उपाधिनाशेन नाशाभावेऽपि उपाधिबिम्बसन्निधिनाशान्निमित्तात्प्रतिबिम्बस्यात्मनो नाशो भविष्यति। न चासिद्धिः शङ्क्या। परिच्छिन्नस्यैव प्रतिबिम्बसम्भवेन सन्निधिनाशध्रौव्यादिति पुनः प्रतिपक्षिते तत्प्रतिषेधायेदमिति भावः। अप्रमेयस्येत्येतदसम्भवि विशेषणम्। व्यर्थं चेत्यतस्तन्निवर्त्यामाशङ्कां दर्शयित्वा व्याचष्टे
कुत
इति। न हि प्रतिपक्षो वाङ्मात्रेण निषेद्धुं शक्यत इति भावः। अप्रमेयेत्यनेन प्रतिपक्षहेतोरसिद्धिमाचष्टे। नायमात्मा घटादेः कस्यचित्प्रतिबिम्बः किन्त्वीश्वरस्य। स चाप्रमेयः सर्वगत इति कथं तस्योपाधिसन्निधिनाश इति। ननु कथमिदं लभ्यते अतद्भावे सामानाधिकरण्यं सारूप्यं गमयतीति प्रसिद्धमेव न च सर्वगतस्य प्रतिबिम्बासम्भवः तदधीनसारूप्यस्य प्रतिबिम्बत्वात् तदिदमुक्तं सरूपत्वादिति।
ननु वक्तव्यं सर्वमुक्त्वोपसंहारः क्रियते तत्किमात्मनित्यत्वविषये सर्वशङ्कोद्धारो जातो येनतस्माद्युद्ध्यस्व इत्युपसंह्रियत इत्यतो जात इत्याह नही ति। उपाधिबिम्बसन्निध्यनाशे प्रदर्शके आदर्शे उपाधौ बिम्बे चाविनष्टे सति प्रतिबिम्बनाशो न ह्यस्ति उपपादितश्चात्र त्रयस्यानाश इति भावः। ननु विनाशिनां देहानामप्यनुपाधिकत्वात्कोऽत्रोपाधिरित्यत आह स्वयमि ति। उपाध्युपाधिमद्भावो विशेषबलेनेति भावः। लोकेऽदृष्टमिदं कथमङ्गीकार्यमित्यत आह चित्त्वादि ति। जडेष्वयावद्वस्तुभावित्वात्सर्वत्र भेदाभेदौ। चित्स्वरूपे तु यावद्वस्तुभावित्वादभेद एवेति भावः। स्वस्यैवोपाधित्वे मुक्तावात्मनिवृत्तिः स्यात्। उपाधिनिवृत्तिलक्षणत्वान्मुक्तेरित्यत आह नित्य इति। द्विविध उपाधिरात्मनः नित्योऽनित्यश्च तत्र नित्यस्यावस्थानं अन्यस्य निवृत्तिर्मुक्ताविति कुत एतदित्यत आह प्रतिपत्ता विति। प्राप्तौ सत्यां कुतस्तिष्ठतीति शेषः। ननूपाध्येति कथं किप्रत्ययान्तस्य पुल्लिङ्गतानियमात्। तर्हि इषुधिर्द्वयोः कथम्। प्रयोगदर्शनादपवादः। यथाहलिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः इति। समं प्रकृतेऽपि। स्व आत्मा रूपं यस्याः सा स्वरूपा। चिद्रूपत्वात् स्वरूपत्वं स्वरूपत्वान्नित्यत्वम्।