Sbg 2.17 scsh
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Shankaracharya ।।2.17।। अविनाशि न विनष्टुं शीलं यस्येति। तु शब्दः असतो विशेषणार्थः। तत् विद्धि विजानीहि। किम् येन सर्वम् इदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् आकाशेनेव घटादयः। विनाशम् अदर्शनम् अभावम्। अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य। नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति निरवयवत्वात् देहादिवत्। नाप्यात्मीयेन आत्मीयाभावात्।
यथा देवदत्तो धनहान्या व्येति न तु एवं ब्रह्म व्येति। अतः अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुमर्हति न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि। आत्मा हि ब्रह्म स्वात्मनि च क्रियाविरोधात्।।
किं पुनस्तदसत् यत्स्वात्मसत्तां व्यभिचरतीति उच्यते