Sbg 2.17 scjaya

From IKS BHU
Jump to navigation Jump to search

  Sanskrit Commentary By Sri Jayatritha ।।2.17।।अविनाशि तु इति श्लोके सर्वगतस्य नित्यत्वमुच्यते तत्प्रकृतानुपयुक्तमित्याशङ्क्य पूर्वार्धं तावत्प्रकृतोपयोगं सूचयन्व्याचष्टे किं बहुने ति। वाक्यानामुपासनार्थत्वात् सम्प्रदायस्य च मूलानिश्चयात् प्रकृतिब्रह्मणो स्वरूपस्यैवासिद्धेः जीवादन्यस्यानादिनित्यस्याभावात् पुनरन्यस्य व्याप्त्यसिद्धिरित्याशङ्क्य किं बहुना प्रकृत्यादिस्वरूपसाधनेन किञ्चेदमिदं नित्यमिति बहुना प्रत्येकमुक्तेन यद्देशतोऽनन्तं तन्नित्यमेवे त्येवं सङ्ग्राहकसङ्गृहीतं वेदादिकं जीवादन्यदप्यस्ति तद्व्याप्तिग्रहणस्थलं भविष्यतीत्याह भगवानित्यर्थः। वेदशब्देन वर्णा गृह्यन्ते। आदि पदेनाकाशादयः। एतेषां च प्रत्यभिज्ञानादिना नित्यत्वसिद्धिः। ननु कालावयवाः क्षणादयः सर्वगता अपि न नित्याः सत्यं नह्यत्र व्याप्तिरुच्यते किन्तु बहूक्तिपरिहारायोपलक्षणमात्रमिति। तुशब्दार्थं एवेति। तथाप्युत्तरार्धः पुनरुक्त इत्यत आह नापी ति। पूर्वं स्वाभाविको नाशो निषिद्धः अविनाशीति ताच्छीलिकप्रत्ययात्। अत्र तु नैमित्तिकः कश्चित्कर्तुं नार्हतीति वचनात्। प्रागनुक्तस्य वेदादेरव्ययत्वस्य कथमनुवाद इति अत आह अव्ययमि ति। विधानमेवेदं कैमुत्येन शापादिना विनाशस्याभावं साधयितुमिति भावः।