Sbg 2.17 scang

From IKS BHU
Jump to navigation Jump to search

  Sanskrit Commentary By Sri Abhinavgupta ।।2.17।।तदेतत्संक्षिप्याह

नासत इति। अथ च लोकवृत्तेनेदमाह असतः नित्यविनाशिनः शरीरस्य न भावः अनवरतमवस्थाभिः परिणामित्वात्। नित्यसतश्च परमात्मनो नास्ति कदाचिद्विनाशः अपरिणामधर्मत्वात्। तथा च वेदः


अविनाशी वा अरेऽप्यमात्मानुच्छित्तिधर्मा (बृ. उप. 4.5.14) इति। अनयोः सदसतोः अन्तः प्रतिष्ठापदं यत्रानयोर्विश्रान्तिः।