Sbg 2.17 scanand

From IKS BHU
Jump to navigation Jump to search

  Sanskrit Commentary By Sri Anandgiri ।।2.17।।ननु सदिति सामान्यं स्वरूपं वा। प्रथमे तस्य विशेषसापेक्षतया प्रलयदशायामशेषविशेषविनाशे विनाशः स्यात्। नचात्मादयो विशेषास्तदापि सन्तीति वाच्यम्। आत्मातिरिक्तानां विशेषाणां कार्यत्वाङ्गीकारात्प्रलयावस्थायामनवस्थानादात्मनस्तु सामान्यात्मनो धर्मित्वादुक्तदोषाद् द्वितीये तु स्वरूपस्य व्यावृत्तत्वे कल्पितत्वाद्विनाशित्वमनुवृत्तत्वे तस्यैव सामान्यतया प्रागुक्तदोषानुषक्तिरिति मन्वानश्चोदयति किं पुनरिति। सामान्यविशेषभावशून्यमखण्डैकरसं सदेवेत्यादिश्रुतिप्रमितं सर्वविक्रियारहितं वस्तु प्रकृतं सद्विवक्षितमित्युत्तरमाह उच्यत इति। आत्मनः सदात्मनो विनाशराहित्यविज्ञाने सर्वजगद्व्यापकत्वं हेतुमाह येनेति। आत्मनो विनाशाभावे युक्तिमाह विनाशमिति। आत्मनो विनाशमिच्छता स्वतो वा परतो वा नाशस्तस्येष्यते। नाद्य इत्याह अविनाशीति। देहादिद्वैतमसदुच्यते ततः सतो विशेषणं स्वतो नाशराहित्यम्। तस्य द्योतको निपात इत्याह तुशब्द इति। आकाङ्क्षापूर्वकं विशेष्यं दर्शयति किमित्यादिना। विमतमविनाशि व्यापकत्वादाकाशवत् नहि प्रमितमेवोदाहरणं किंतु प्रसिद्धमपीति भावः। न द्वितीय इत्याह विनाशमिति। न खल्वस्य विनाशं कर्तुं कश्चिदर्हतीति संबन्धः। विनाशस्य सावशेषत्वनिरवशेषत्वाभ्यां द्वैराश्यमाश्रित्य व्याकरोति अदर्शनमिति। न कश्चिदस्याभावं कर्तुं शक्नोतीत्यत्र हेतुमाह अव्ययस्येति। ब्रह्म हि स्वरूपेण व्येति स्वसंबन्धिना वेति विकल्प्याद्यं दूषयति नैतदिति। नहि निरवयवस्य स्वावयवापचयरूपव्ययः संभवतीत्यत्र वैधर्म्यदृष्टान्तमाह देहादिवदिति। द्वितीयं निरस्यति नापीति। तदेव व्यतिरेकदृष्टान्तेन स्पष्टयति यथेति। द्विविधेऽपि व्ययायोगे फलितमाह अत इति। किञ्च ब्रह्म परतो न नश्यत्यात्मत्वाद्धटवदित्याह न कश्चिदिति। आत्मत्वहेतोरसिद्धिमुद्धरति आत्मा हीति। तादात्म्यश्रुतिरत्र हीति हेतू क्रियते। अस्तु तर्हि स्वयमेव ब्रह्मात्मनो नाशकमुद्बन्धनादिदर्शनान्नेत्याह स्वात्मनीति।