Sbg 2.16 scneel

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Neelkanth ।।2.16।।ननु सुप्तिसमाध्यादौ त्यक्तोपाधेरात्मनः समदुःखसुखत्वेऽपि सोपाधिकदशायां तप्तायःपिण्डस्य दग्धृत्वमिव तस्य दुःखित्वं दुर्वारम्। उपाधिश्च मूलप्रकृतेर्व्यापिकाया मात्रारूप इति तत्सत्त्वे तु न निर्मूलोच्छेदमर्हत्यतः सोऽमृतत्वाय कल्पत इत्यनुपपन्नमित्याशङ्क्याह नासत इति। प्रमात्रादेरागमापायित्वेन कादाचित्कत्वात् रज्जूरगादिवत् असतः भावः सत्ता कालत्रयेऽपि नास्ति। अयमर्थः प्रमात्रादिर्मूलाज्ञानेन


चिदात्मनि कल्पितः। मूलाज्ञानस्य चात्मज्ञानेन निवृत्तौ कारणाभावान्न पुनः प्रमात्राद्युद्भवोऽस्तीति निष्प्रत्यूहममृतत्वं ज्ञानात्सिध्यतीति। नन्वप्रतीतिमात्रात्प्रमात्रादेर्मिथ्यात्वोपगमे आत्मनोऽपि सुप्त्यादावप्रतीयमानत्वाविशेषान्मिथ्यात्वमस्तु। उभयोर्वा सत्यत्वमस्तु इत्याशङ्क्याह नाभावो विद्यते सत इति। सद्वस्तुनः अभावोऽसत्त्वं कदाचिदपि न विद्यते। सुषुप्त्यादावपि अनुभूतयोः सुखाज्ञानयोः सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति उत्थाने परामर्शदर्शनात्। तदनुभवमन्तरेण तयोः परमार्शासंभवात्। अतः सतोऽसत्त्वं नास्ति। श्रुतिरपि सुप्तिकैवल्ययोः प्रमात्राद्यभावं दृशो नित्यत्वं चाह।यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् इति। यदि प्रमात्रादिः सत्यस्तर्हि सतोऽर्थस्य सुषुप्त्यादावदर्शनं सान्निध्याभावाद्वा द्रष्टुर्दृग्लोपाद्वा वक्तव्यम्। नाद्यः। आत्मनि दृष्टनष्टस्वभावस्यान्यत्र सद्भावकल्पनायोगात्। नान्त्यः। उदाहृतया श्रुत्यैव तन्निषेधात्। तस्मादुभयोरपि सत्यत्वेन मिथ्यात्वेन वा साम्यं दुर्वचम्। ननु सत आकाशादेः क्वचिदपि देशे काले चाभावो यद्यपि नास्ति तथापि सत एव परमाणोर्देशान्तरेऽभावोऽस्ति प्रागसतोऽपि घटादेर्भावश्च दृष्टः तत्कथमुच्यतेनासतो विद्यते भावो नाभावो विद्यते सत इत्याशङ्क्य विद्वदनुभवेन निरस्यति उभयोरपीति। अन्तो याथात्म्यम्। यथा स्वप्ने नभःकुम्भरज्जूरगादयो नित्यत्वानित्यत्वसत्यत्वासत्यत्वादिधर्मोपेततया निश्चिता अपि प्रबोधेन बाध्यन्ते तद्वज्जाग्रद्दृष्टा अपि ते तत्त्वज्ञानेन बाध्यन्ते। ननु जाग्रद्वासनावशात् स्वप्नगतनभ आदौ नित्यत्वादिनिश्चयो भ्रम इति चेत् अनादिकालप्रवृत्तप्राग्भवीयसंस्कारवशात् जाग्रन्नभ आदावपि स भ्रम एवेति तुल्यम्। ननु स्वरूपसदेव रजतादिकं शुक्त्यादावध्यस्यते नत्वसत् शशशृङ्गादिकम्। गगनादिकं तु त्वद्रीत्या स्वरूपेण असदपि कथमात्मन्यध्यस्यत इति चेन्न। अध्यासे हि पूर्वानुभवमात्रमपेक्षते नत्वनुभूतस्य स्वरूपेण सत्त्वमपि। दर्पणप्रतिबिम्बिते गगनेऽपि नैल्याध्यासदर्शनात्। न च गगने नैल्यं स्वरूपेण सत्यमस्ति अथचान्यत्राध्यस्यते। तस्मात् भ्रमपरम्परायाः संभवात्। स्वप्नद्रष्टृभिरिवास्माभिरदृष्टमपि सदसतोर्याथात्म्यं प्रबुद्धैर्द्रष्टुं शक्यमेव। तथा च श्रुतयःनेह नानास्ति किंचनअस्तीत्येवोपलब्धव्यःअतोऽन्यदार्तम् इत्याद्याः अनात्मनोऽसत्त्वं आत्मनश्च सत्त्वं प्रतिपादयन्ति। एवं सतो ज्ञानेनासतो बाधात्कैवल्यं सिध्यतीति भावः।