Sbg 2.16 scdhan

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।2.16।।शीतोष्णादेः प्रतीयमानत्वेऽपि बाध्यत्वेन मिथ्यात्वात् तद्विपर्ययेणात्मनः सत्यत्वाच्च शोकमोहावकृत्वा शीतोष्णादिसहनं युक्तमित्याह नेति। असतो विचारेण बाध्यत्वात्पूर्वमप्यविद्यमानस्य शीतादेः सकारणस्य प्रत्यक्षादिप्रमाणैर्निरुप्यमाणस्यापि भावः परमार्थसत्ता न विद्यते। एतेनासतः शून्यस्य नरविषाणतुल्यस्यास्तित्वप्रसङ्गभावादप्रसक्तप्रतिषेध इति प्रयुक्तम्। विमतं शीतादि अतात्त्विकमप्रामाणिकत्वात् शुक्तिरुप्यवत्। धर्मिग्राहकस्य प्रत्यक्षादेस्तात्त्विकप्रामाण्याबोधकत्वदर्शनात् तद्विषयस्य शीतादेरनिर्वाच्यस्यासतो भ्रान्तैर्लोकैः प्रत्यक्षादिभिरुपलभ्यमानत्वात् सत्त्वेन गृहीतस्य भावस्तात्त्विकत्वं नास्तीत्यर्थः। ननु क्वचित्प्रत्यक्षादेस्तात्त्विकप्रामाण्यावेदकत्वदर्शनात्तद्विषयस्य शीतादिद्वैतस्य दुर्निरुपर्त्वेनानिर्वचनीयत्वं न शक्यते वक्तुम्। वेदैकदेशस्य क्रियार्थत्वे ब्रह्मबोधकवेदस्यापि क्रियार्थत्वं यथा। यथावा श्रोत्रादीन्द्रियै रुपानुपलब्ध्या चक्षुषापि तन्नोपलभ्यत इतिचेन्न। शीतादिद्वैतस्य विकारस्यागमापायित्वेनासत्त्वनिर्धारणात्। तथाचायं प्रयोगः विमतमसत् आगमापायित्वाद्रज्जूरगवदिति। तथाचवाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्यादिश्रुत्यापि विकारस्य मिथ्यात्वं बोधितम्। किंच कार्यं कारणान्न भिद्यते कुण्डलादिसंस्थानस्य चक्षुरादिनिरुप्यमाणस्य कनकादिव्यतिरेकेणानुपलब्धेः। ततश्चायं प्रयोगः विमतं न कारणाद्वस्तुतो भिन्नं कार्यत्वात् कुण्डलादिवदिति।आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा इति न्यायात् कार्यस्य जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः कारणादव्यतिरेकाच्च। सर्वः शीतादिविकारोऽसत् कारणव्यतिरेकेणानुपलब्धेः कुण्डलादिवदिति सर्वस्यापि कारणस्य स्वस्वकारणाध्वतिरेकेणानुपलभ्यमानस्य कार्यकारणपरम्पराभ्रमाधिष्ठाने कल्पितत्वं सिध्यति। ननु कार्यकारणविभागविहीनस्य वस्तुनोऽभावात्कार्यकारणपरम्पराया


असत्त्वे सर्वाभावप्रसङ्ग इतिचेन्न। सर्वत्रानुवृत्तव्यावृत्तसदनद्वुद्धिद्वयोपलब्ध्यानुवृत्ते च व्यावृत्तानां कल्पित्वात् अकल्पितस्य सर्वभेदविकल्पाधिष्ठानस्याकार्यकारणस्य वस्तुनः सिद्धेः। तथाच यद्यद्य्वावृत्तेष्वनुवृत्तं तत्तत्परमार्थसत् यथा रजतादिधारास्वनुगतः शुक्त्यादेरिदमंशः विमतं सत् अव्यभिचारित्वादिदमंशवत् यद्य्वावृत्तं तन्मिथ्या यथा रजतादिधारा विमतं मिथ्या व्याभिचारित्वात् रजतादिधारावत् इत्यनुमानद्वयेन सतोऽकल्पितत्वमसतः कल्पितत्वं च सिद्धम्। ननु नेदमनुमानद्वयमुपपद्यते सर्वमिथ्यात्ववादिनो विभागाभावादनुमानादिव्यवहारानुपपत्तेरिति चेन्न सदसद्विभागस्य बुद्य्धायत्तत्वात् बुद्धिद्वयाधीने विभागे स्थिते सत्यनुमानादिव्यवहारोपपत्तेः। नन्वद्वैतवादिनस्तव बुद्धिद्वयाभावात्तदधीनः सदसद्विभागः कथं सेत्स्यतीति श्वेत् सर्वत्र व्यवहारदशायां कल्पितस्य सदसद्विभागस्य हेतुभूतबुद्धिद्वयस्य सर्वैरुपलभ्यमानत्वात्। नन्वेवमपि सतः सामान्यरुपतया विशेषाकाङ्क्षायां सामान्यविशेषरुपे द्वे वस्तुनी स्यातामितिचेन्न। सोऽयमित्यादि सामानाधिकरण्यवद्धटः सन्नित्यादिसामानाधिकरण्यस्यैकवस्तुनिष्ठत्वाद्वस्तुभेदे घटपटयोरिव तदयोगात्। ननूक्तसामानाधिकरण्यस्यैकवस्तुनिष्ठत्वं न वाच्यं नीलमुत्पलमितिवद्धर्मधर्मिविषयतया तस्य सुवचत्वादितिचेन्न। नीलोत्पलमिति सामानाधिकरण्यस्य धर्मधर्मिविषयस्य गौणत्वात्। तदपेक्षयानुवृत्ते व्यावृत्तं कल्पितमिति ऐक्यनिष्ठस्यैव मुख्यस्यौचित्यात्। तथाच सन् घटः सन् पटः सन्हस्ती सन्नश्चः सन् गोरित्येवं बुद्धिद्वयमुपलभ्यते ततोश्च बुद्य्धोर्घटादिबुद्धिर्व्यभिचरति घटादेर्विकारस्य व्यभिचारित्वं पूर्वं दर्शितं नतु सद्बुद्धिर्व्यभिचरति घटे नष्टेऽपि पटादौ तद्दर्शनात्। एतेन घटे नष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति प्रत्युक्तम्। तस्माद्धटादिबुद्धिविषयोऽसत् व्यभिचारात् रज्जूरगवत् सद्बुद्धिविषयस्तु नासत् अव्यभिचारादिदमंशवत्। ननु यथा घटे विनष्टे सद्बुद्धिः पटादौ दृश्टते तथा घटबुद्धिरपि घटान्तर इतिचेन्न। घटबुद्धेः पटादावदर्शनात्। ननु नष्टे घटे सद्बुद्धिरपि तत्र न दृश्यत इति चेन्न। यतो घटादिनाशे व्यक्तिनाशे जातेरिव विशेष्यस्य विशेषणीभूतसत्ताभिव्यञ्जकस्याभावात् सद्बुद्धेरप्यदर्शनं नतु तस्या विषयस्य सत्ताया अभावाददर्शनम्। ननु द्वयोः सतोरेव नीलोत्पलयोर्विशेषविशेष्यत्वदर्शनात् सद्धटयोरपि विशेषणविशेष्यत्वाभ्युपगमे द्वयोः सत्त्वावश्यंभावाद्धटादिकल्पितत्वानुमानं सामानाधिकरण्यबुद्धिबाधितं घटादेः कल्पित्वाभ्युपगमे तस्याभावेन समानाधिकरणत्वस्यायुक्तत्वादिति चेन्न। यतः सामानाधिकरण्यबुद्धिः पदार्थद्वयभानमपेक्षते न द्वयोः सत्त्वम्। मरीच्यादावन्यतरस्याभावेऽपि सदिदमुदकमिति सामानाधिकरण्यदर्शनात्। तस्माद्देहादेः शीतोष्णादेर्द्वन्द्वस्य च सकारणस्य सत्त्वेन कल्पितस्य वस्तुतोऽसतो भावः परमार्थसत्ता न विद्यते। जन्मध्वंसाभ्यां प्रागूर्ध्वं च वस्त्वन्तरे देशान्तरे चानुपलब्धेः। तथा परमार्थसतः अविनाशिनोऽबाध्यस्यात्मनोऽतत्त्वविद्भिरज्ञातत्वादविद्यमानकल्पस्याभावोऽविद्यमानत्वं परमार्थतोऽसत्ता न संभवति सर्वत्राव्यभिचारात् त्रिविधपरिच्छेदशून्यत्वात्। इत्थं भाष्यकृद्भिः सदसतोः साध्यत्वं परिच्छिन्नापरिच्छिन्नत्वयोर्हेतुत्वं च बोधितम्। कैश्चित्तु परिच्छिन्नस्यासतः शीतादेः प्रपञ्चस्य भावः सत्ता पारमार्थिकत्वं स्वान्यूनसत्ताकतादृशपरिच्छेदशून्यत्वं न विद्यते सतः सर्वत्रानुस्यूतसन्मात्रस्याभावः परिच्छिन्नत्वं न विद्यते इति व्याख्यातम्। परिच्छिन्नत्वं च त्रिविधं तत्रात्यन्ताभावप्रतियोगित्वलक्षणं देशतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वलक्षणं कालतः परिच्छिन्नत्वं अन्योन्याभावप्रतियोगित्वलक्षणं वस्तुतः परिच्छिन्नत्वम्। नन्वात्मनोऽप्याकाशवत्क्वाप्यसमवेतत्वात्समवायसंबन्धेनात्यन्ताभावप्रतियोगित्वं तस्मिन्नतिव्याप्तं आकाशादेश्च यावन्मूर्तसंयोगित्वनियमात्संयोगसंबन्धेन तस्मिन्नव्याप्तं च अमूर्तनिष्ठेतिविशेषणदाने त्वात्मन्यतिव्याप्तिस्तदवस्था सर्वसंबन्धित्वाभावविवक्षायां सर्वसंबन्धशून्ये परमात्मन्यतिव्याप्तिः। सर्वसंबन्धिन्यज्ञानेऽव्याप्तिश्च। ध्वंसप्रतियोगित्वमप्याकाशादावव्याप्तं तेषां परैर्नित्यत्वाभ्युपगमात् अन्योन्याभावप्रतियोगित्वं चात्मनि व्यभितारि तस्य जडनिष्ठान्योन्याभावप्रतियोगित्वादन्यथास्य जडत्वापत्तेरितिचेन्न। अत्यन्तभावेऽन्योन्याभावे च प्रतियोगिसमसत्ताकत्वविशेषणेनात्मन्यतिव्याप्तिवारणात् अज्ञानाकाशादौ स्वस्वसमानसत्ताकान्योन्याभावात्यन्ताभावप्रतियोगित्वसत्त्नेनाव्यप्त्यभवात्। अविद्याकाशादेर्व्यावहारिकस्य पारमार्थिकाभावपक्षे स्वान्यूनसत्ताकेतिविशेषणं देयम्। अतएव प्रातिभासिकरजतादेर्व्यावहारिकाभावप्रतियोगित्वेऽपि न साधनवैकल्यम्। ध्वंसप्रतियोगित्वं च नाकाशादावव्याप्तम्तस्माद्वा एतस्मादात्मन आकाश संभूतः इति श्रुतिसिद्धत्वेन तस्यानुमतत्वात्।आकाशवत्सर्वगतश्च नित्यः इत्यत्रात्मनिदर्शनत्वं तु स्वसमानकालीनसर्वगतत्वेनाभूतसंपल्वस्थायित्वेन चेति द्रष्टव्यम् इति तत्रोदाहृतव्याख्यासत्यं ज्ञानमनन्तं ब्रह्म इति श्रुतौ ब्रह्मणोऽपरिच्छिन्नत्वबोधकस्यानन्तपदस्य पृथङ्निर्देशात् ब्रह्म सत्यमपरिच्छिन्नत्वात् जगदसत्यं परिच्छिन्नत्वादित्यनुमानद्वये हेतुत्वेनोभयोर्निर्देशादप्रसिद्धार्थकल्पनात्मकेन हेतुसाध्ययोरैक्यापत्तिरुपेण च दोषेण ग्रस्ता यदि भाष्यानुरोधेन योजयितुं शक्या तर्हि निर्दुष्टेति दिक्। ननु सर्वेषामेव कुतो न निर्णय इत्याशङ्क्य सर्वेषां तत्त्वदर्शित्वाभावात्तत्त्वदर्शिनां त्वस्त्येन निर्णय इत्याह उभयोरिति। उभयोरात्मानात्मनोः सदसतोरपि दृष्टोन्तः सत्सदैवासदसदेवेति निर्णयस्तत्त्व दर्शिभिर्ब्रह्मविद्भिः। तस्मात्त्वमपि तेषां दृष्टिमवलम्ब्य शोकमोहौ हित्वा शीतादींस्तितिक्षस्वेत्याशयः।