Sbg 2.15 scmad

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhavacharya ।।2.15।।अतः प्रयोजनमाह यं हीति। यमेते मात्रास्पर्शा न व्यथयन्ति। पुरिशयमेव सन्तं शरीरसम्बधाभावे सर्वेषां व्यथाभावात्पुरुषमिति विशेषणम्। कथं न व्यथयन्ति समदुःखसुखत्वात् तत्कथं धैर्येण।