Sbg 18.78 scjaya
Jump to navigation
Jump to search
Sanskrit Commentary By Sri Jayatritha ।।18.78।।इदानीं समापितभाष्यो भगवानाचार्यो भाष्यनिर्माणस्य फलं भगवत्प्रीतिमेवाशास्ते -- पूर्णे ति। एतद्गीतामित्यनेन निरूपणमित्यनेन च सम्बध्यते। तेनेति श्रवणाद्यदिति लभ्यते।करतलकलितामलकमिव प्रभुणा येनेदमवगतं विश्वम्। स जयति जनकसुतायाः कान्तः श्रीरघुनन्दनो देवः।।1।।
नमामि व्यासदासस्य पूर्णबुद्धेः पदाम्बुजे। नतामरशिरोरत्नराजिनीराजिते सदा।।2।।
अक्षोभ्यतीर्थगुरुणा शुकवच्छिक्षितस्य मे। वचोभिरमृतप्रायैः प्रीयन्तां सततं बुधाः।।3।।