Sbg 18.77 scang

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Abhinavgupta ।।18.74 -- 18.78।।इत्यहमित्यादि मतिर्ममेत्यन्तम्। संजयवचनेन संवादमुपसंहरन एतदर्थस्य गाढप्रबन्धक्रमेण निरन्तरचिन्तासन्तानोपकृतनैरन्तर्यादेव चान्ते सुपरिस्फुटनिर्विकल्पानुभवरूपतामापाद्यमानं स्मरणमात्रमेव परब्रह्मप्रदायकम् इत्युच्यते। एवं भगवदर्जुनसंवादमात्रस्मरणादेव तत्त्वावाप्त्या ( S? तत्त्वव्याप्त्या ) श्रीविजयविभूतय इति।


।।शिवम्।।अत्र संग्रहश्लोकः -- भङ्क्त्वाऽज्ञानविमोहमन्थरमयीं सत्त्वादिभिन्नां धियं


प्राप्य स्वात्मविबोधसुन्दरतया ( K स्वात्मविभूत -- ) विष्णुं विकल्पातिगम्।


यत्किञ्चित् स्वरसोद्यदिन्द्रियनिजव्यापारमात्रस्थिते ( तो )


हेलातः कुरुते तदस्य सकलं संपद्यते शंकरम्।।।।इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपाद


विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे अष्टादशोऽध्यायः।।[ आचार्यप्रशस्तिः ] श्रीमान् ( S श्रीमत्कात्यायनो -- ) कात्यायनोऽभूद्वररुचिसदृशः प्रस्फुरद्बोधतृप्त


स्तद्वंशालंकृतो यः स्थिरमतिरभवत् सौशुकाख्योऽतिविद्वान्।


विप्रः श्रीभूतिराजस्तदनु समभवत् तस्य सूनुर्महात्मा


येनामी सर्वलोकास्तमसि निपतिताः प्रोद्धृतता भानुनेव।।1।।तच्चरणकमलमधुपो


भगवद्गीतार्थसङ्ग्रहं व्यदधात्।


अभिनवगुप्तः सद्द्विज


लोटककृतचोदनावशतः ( S लोठककृत -- ?N लोककृत)।।2।।अत इयमयथार्थं वा


यथार्थमपि सर्वथा नैव।


विदुषामसूयनीयं


कृत्यमिदं बान्धवार्थं हि।।3।।अभिनवरूपा शक्ति


स्तद्गुप्तो यो महेश्वरो देवः।


तदुभयथामलरूपम् ( ? K? S तदुभययामल -- )


अभिनवगुप्तं शिवं वन्दे।।4।।परिपूर्णोऽयं ( This verse is given differently in different Mss. S परिपूर्णोऽयं गीतार्थसंग्रहः।


कृतिस्त्रिनयनचरणचिन्तनलब्ध


प्रसिद्धेश्श्रीमदभिनवगुप्तस्य।? N? K अत इत्ययमर्थसंग्रहः। [ N substitutes this sentence with


परिपूर्णोऽयं श्रीमद्भगवद्गीतार्थसंग्रहः। ]


कृतिश्चेयं परमेश्वरचरण [ K adds सरोरुह ] चिन्तन


लब्धचिदात्मसाक्षात्काराचार्याभिनवगुप्तपादानाम्। ) श्रीमद्


भगवद्गीतार्थसंग्रहः [ सु ] कृतिः।


त्रिणयनचरण [ वि ] चिन्तन


लब्धप्रसिद्धेरभिनवगुप्तस्य।।5।।


।।इति शिवम्।।