Sbg 18.73 scms

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.73।।एवं पृष्टः कृतार्थत्वेन पुनरुपदेशानपेक्षतामात्मन अर्जुन उवाच -- नष्टो मोह इति। नष्ट उच्छिन्नो मोहोऽज्ञानकृतो विपर्ययः तन्नाशकमाह। स्मृतिर्लब्धा त्वत्प्रसादान्मया यस्मात्त्वदुपदेशादात्मज्ञानं लब्धं सर्वसंशयानाक्रान्ततया प्राप्तमतः सर्वप्रतिबन्धशून्येनात्मज्ञानेन मोहो नष्ट इत्यर्थः। हेऽच्युत? आत्मत्वेन निश्चितत्वात्वियोगायोग्यस्मृतिलम्भने सर्वग्रन्थीनां विप्रमोक्षः इति श्रुत्यर्थमनुभवन्नाह -- स्थितोऽस्मीति। स्थितोस्मि गतसंदेहो निवृत्तसर्वसंदेहः स्थितोऽस्मि युद्धकर्तव्यतारूपे त्वच्छासने। यावज्जीवं च करिष्ये वचनं तव भगवतः परमगुरोराज्ञां पालयिष्यामीति प्रयाससाफल्यकथनेन भगवन्तमर्जुनः परितोषयामास। अनेन गीताशास्त्राध्यायिनो भगवत्प्रसादादवश्यं मोक्षफलपर्यन्तं ज्ञानं भवतीति शास्त्रफलमुपसंहृतं तद्धास्य विजज्ञावितिवत्।