Sbg 18.73 scanand

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Anandgiri ।।18.73।।प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसंदेहविपर्यासरहितस्य पृष्टस्य भगवदनुग्रहप्राप्तिकथनेन भगवन्तं परितोषयिष्यन्नर्जुनो विज्ञापितवानित्याह -- अर्जुन इति। अज्ञानोत्थस्याविवेकस्य नष्टत्वमेव स्पष्टयति -- समस्त इति। स्वयंज्योतिषि प्रतीचि ब्रह्मण्यविद्याभ्रमं विद्यापनयति नाविदितं प्रकाशयतीति मत्वाह -- स्मृतिश्चेति। स्मृतिलाभे किं स्यादिति चेत्तदाह -- यस्या इति। मोहनाशे स्मृतिप्रतिलम्भे चासाधारणं कारणमाह -- त्वत्प्रसादादिति। प्रकृतेन प्रश्नप्रतिवचनेन लब्धमर्थं कथयति -- अनेनेति। यदुक्तं स्मृतिप्रतिलम्भादशेषतो हृदयग्रन्थीनां विप्रमोक्षः स्यादिति तत्र प्रमाणमाह -- तथाचेति। ज्ञानादज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति -- भिद्यत इति। भगवदनुग्रहादज्ञानकृतमोहदाहानन्तरमात्मज्ञाने प्रतिलब्धे त्वदाज्ञाप्रतीक्षोऽहमित्युत्तरार्धं व्याकरोति -- अथेति। तव वचनं करिष्येऽहमित्यत्र तात्पर्यमाह -- अहमिति।