Sbg 18.67 scram

From IKS BHU
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.67।। इदं ते परमं गुह्यं शास्त्रं मया आख्यातम् अतपस्काय अतप्ततपसे त्वया न वाच्यं त्वयि वक्तरि मयि च अभक्ताय कदाचन न वाच्यं तप्ततपसे च अभक्ताय न वाच्यम् इत्यर्थः। न च अशुश्रूषवे भक्ताय अपि अशुश्रूषवे न वाच्यं न च मां यः अभ्यसूयति मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषम् आविष्करोति न तस्मै वाच्यम्? असमानविभक्तिनिर्देशः तस्य अत्यन्तपरिहरणीयताज्ञापनाय।