Sbg 18.67 scdhan
Sanskrit Commentary By Sri Dhanpati ।।18.67।।एवं सप्तदशाध्यायान्तगीताशास्त्रार्थं सर्वं प्रतिपत्तिससौकर्यार्थमस्मिन्नध्याये विस्तरेणोपसंहृत्यान्ते मन्मना भवेति द्वाभ्यां पुनः स्वशास्त्रदार्ढ्याय संक्षेपतस्तस्योपसंहारं कृत्वाथेदानीं शास्त्रसंप्रदायविधिमाह -- इदमिति। इदं शास्त्रं संसारविच्छित्तिहेतुभूतं तव हिताय मयोक्ताम्। अतपस्काय उक्तशारीरादितपोरहिताय न वाच्यं कदाचन कस्यंचिदप्यवस्थायापति सर्वैः सबंध्यते। तपस्विनेऽप्यभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन न वाच्यं विशेषणद्वययुक्तायाप्यशुश्रूषवे शुश्रूषावर्जिताय कदापि न वाज्यम्। यो मां वासुदेवं मनुष्यं प्राकृतं मत्वाऽभ्यसूयति आत्मप्रशंसादिदोषाध्योरोपणेन मतस्वरुपानभिज्ञो ममेश्वरत्वं न सहते तस्मै ममेश्वरत्वासहिष्णवेऽतापस्विनेऽतपस्विनेऽभक्तायाशुश्रूषवेऽपि कदाचन न वाच्यम्। तपस्विने भक्ताय शुश्रूषवेऽनसूयवे शास्त्रं वाच्यमिति प्रतिषेधासामर्थ्याद्गभ्यते। तत्र मेधाविनी तपस्विने वेति स्मृत्यन्तरे मेधावितपस्विनेर्विकल्पदर्शात्। शुश्रूषाभक्तियुक्ताय भगवत्यसूयारहिताय तपस्विने वाच्यम्। शुश्रूषाभक्त्यनसूयासहिताय मेधाविने वा वाच्यम्। शूश्रूषाभिक्तिवियुक्ताय तपस्विने मेधाविने यपि न वाच्यम्। भगवत्यसूयायुक्ताय समस्तगुणवतेऽपि न वाच्यम्। गुरुशुश्रूषाभक्त्यनसूयायुक्ताय तपस्विने मेधाविने वा वाच्यमित्येष शास्त्रसंप्रदायविधिः।