Sbg 18.66 scval
Sanskrit Commentary By Sri Vallabhacharya ।।18.66।।अथैतदप्यशक्तोऽसि मुख्यं कर्तुमिह चेत्तर्हि तुभ्यं तदनुकल्पमेवाहमुपदिशन्नेवाऽऽह (अत इदानीं तव तु मयि मुख्यकर्तरि परदेवतायां परमात्मनि धर्मकर्मभारं सन्न्यस्य मदेकशरणतया मदुक्तकारित्वमुचितं एवं च मोक्षोऽपीत्याह) -- सर्वधर्मान्परित्यज्येति। अत्र सर्वधर्मपरित्यागमनूद्य शरणगमनं विधीयते तेन सर्वपदेन शरणमार्गीयविरोधिधर्मा उच्यन्ते? तेषां परित्यागस्तदविरोधिनां विधानं सूच्यतेमन्मनाः इत्यनेन सङ्गतिसम्भवात्। यद्वा मयि धर्मिणि गृहीते धर्माः पुनर्नोपादेयाःस्वराडिव निपानखनित्रमिन्द्र -- इति न्यायात्। अथवामय्येव मन आधत्स्व इत्यत्रैवकारेणेतरभजनं वार्यते? तेनात्रापीतरभजनरूपान्सर्वधर्मान् परित्यज्य इति मर्यादामार्गीयस्यार्जुनस्येतरभजननिरतस्य पुष्टौ निवेशनार्थमितरभजनरूपधर्मपरित्याग उच्यते,भगवता। अतएव तथाभूतस्य तस्य तत्त्यागे पापसम्भावनाऽपि भवति। तत्र पुष्टिपुरुषोत्तमस्वरूपभावमाविष्कुर्वन्नाहअहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः इति सर्वनिरोधार्थावतारत्वादित्याशयः।एतच्च सर्वं न्यासादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्तेति वेदान्ताचार्यपद्ये निरूपितम्। तथाहि अष्टादशाध्याये भगवदुक्तेषु न्यासादेशेषुसर्वधर्मान्परित्यज्य इति धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्ता सर्वधर्मपरित्यागतः? न किञ्चन परमात्मातिरिक्तं येषां किन्तु हरिरेव परमात्मा सर्वं तेषामधिकार उक्तो न्यासादेशेष्वित्यर्थः। कार्पण्यं वा साधनबलराहित्याद्दैन्यम्। दीना हिबहव इह विहङ्गा भिक्षुचर्यां चरन्तो धर्मादिसाधनबलाशारहिता गोपिका इव भगवदेकशरणा भवन्ति इति कार्पण्यं न्यासादेशेष्वङ्गमुक्तम्। मदितरभजनापेक्षणं वेति। अनन्या हि कक्षीवदादय इव मदितरभजनधर्मापेक्षणं व्यपोह्य मदाज्ञप्तकारिण इति दुस्साध्येच्छोद्यमौ वा दुःसाध्या द्रोणभीष्मादिमारणपापप्रायश्चित्तरूपा धर्मास्तेषु इच्छोद्यमौ व्यपोढुं त्याजयितुं तत्त्याग उक्त इति। अत्र विशेषस्तु श्रीविठ्ठलेश्वरप्रभुचरणकृतितोऽवगन्तव्यः। प्रकृतेमोचयिष्यामि इति वक्तव्येमोक्षयिष्यामि इत्युक्त्या सकलधर्ममर्यादाभिनिविष्टचेतसेऽर्जुनाय स्वाश्रितजनपोषकेणाक्लिष्टकर्मणा भगवता निरतिशयानुग्रहरूपारणस्वीकाररूपोऽन्यतो मोक्षो दत्त इति ज्ञायते।अयमेव हि सन्न्यासः साङ्ख्ये योगे च भक्तितः। उक्तो भगवदर्थेन हरिं गृह्णीत कर्मणा।।1।।
एवं च गायमानं मामापन्नः शरणं भवान्। करोतु मन्निगमितं निजधर्ममहैतुकम्।।2।।
इति श्रीकृष्णवाक्येषु सत्यं तत्त्वं प्रतीयते। मर्यादापुष्टिमार्गाधिष्ठाता यत्पुरुषोत्तमः।।3।।